Skip to main content

Posts

Showing posts from October, 2016

श्रीसूक्तं

श्रीसूक्तं ॐ हिरण्यवर्णा हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो मऽआवह।।१।। तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्या हिरण्यं विन्देयं गामश्वं पुरुषानहम् ।।२।। अश्वपूर्णा रथमध्यां हस्तिनादप्रमोदिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवीजुषताम् ।।३।। कां सोस्मितां हिरण्यप्राकारामाद्रा ज्वलन्तीं तृप्तांतर्पयन्तीम् । पद्मस्थितां पद्मवर्णा तामिहो पह्वये श्रियम् ।।४।। चन्द्रां प्रभासां यशसा ज्वल्न्तीं श्रियं लोके देवजुष्टामुदाराम्। तां पद्मिनींमीं शरण प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणोमि।।५।। आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तववृक्षोऽथ बिल्वः । तस्य फ़लानि तपसानुदन्तु या अन्तरा याश्च बाह्याअलक्ष्मीः ।।६।। उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्कीर्तिमृद्धिं ददातु मे ।।७।। क्षुत्पिपासामलां जयेष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वा निणुद मे गृहात् ।।८।। गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।।९।। मनसः काममाकूतिं वाचः सत्यमशीमहि । पशुनां रुपमन्...